वांछित मन्त्र चुनें

ते अ॑स्य सन्तु के॒तवोऽमृ॑त्य॒वोऽदा॑भ्यासो ज॒नुषी॑ उ॒भे अनु॑ । येभि॑र्नृ॒म्णा च॑ दे॒व्या॑ च पुन॒त आदिद्राजा॑नं म॒नना॑ अगृभ्णत ॥

अंग्रेज़ी लिप्यंतरण

te asya santu ketavo mṛtyavo dābhyāso januṣī ubhe anu | yebhir nṛmṇā ca devyā ca punata ād id rājānam mananā agṛbhṇata ||

पद पाठ

ते । अ॒स्य॒ । स॒न्तु॒ । के॒तवः॑ । अमृ॑त्यवः । अदा॑भ्यासः । ज॒नुषी॒ इति॑ । उ॒भे इति॑ । अनु॑ । येभिः॑ । नृ॒म्णा । च॒ । दे॒व्या॑ । च॒ । पु॒न॒ते । आत् । इत् । राजा॑नम् । म॒ननाः॑ । अ॒गृ॒भ्ण॒त॒ ॥ ९.७०.३

ऋग्वेद » मण्डल:9» सूक्त:70» मन्त्र:3 | अष्टक:7» अध्याय:2» वर्ग:23» मन्त्र:3 | मण्डल:9» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ते) वे (अमृत्यवः) मरणधर्रहित (अदाभ्यासः) अदम्भनीय पूर्वोक्त तत्त्ववेत्ता लोग (अस्य) इस संसार के (केतवः) मौलिकमणिस्थानी (सन्तु) हों। (उभे जनुषी) दोनों जन्मों को (अनु) लक्ष्य करके (देव्या नृम्णा) दिव्यकर्म (येभिः) जिनसे किये जाते हैं, वे ही लोग (पुनते) संसार को पवित्र करते हैं (च) और (आदित्) वे ही (मननाः) माननीय (राजानम्) प्रकाशरूप परमात्मा को (अगृभ्णत) ग्रहण करते हैं ॥३॥
भावार्थभाषाः - जो लोग लोक और परलोक को लक्ष्य रखकर शुभ कर्म करते हैं, वे ही परमात्मा के ज्ञानपात्र हो सकते हैं, अन्य नहीं ॥३॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ते) पूर्वोक्ताः (अमृत्यवः) मरणधर्मशून्याः (अदाभ्यासः) अदम्भनीयास्तत्त्वविदः (अस्य) अमुष्य जगतः (केतवः) मौलिमणिस्थानीयाः (सन्तु) भवन्तु (उभे जनुषी) उभयजन्म (अनु) लक्ष्यीकृत्य (देव्या नृम्णा) दिव्यानि कर्माणि (येभिः) यैः क्रियन्ते ते एव (पुनते) जगत् पवित्रयन्ति। (च) अथ च (आदित्) ते एव (मननाः) मान्याः (राजानम्) स्वतःप्रकाशं परमात्मानं (अगृभ्णत) गृह्णन्ति ॥३॥